Be sure to Chant this Mantras on Ganesh Chaturthi

Every year, the festival of Ganesh Chaturthi is celebrated with great pomp, which is coming on 2nd September this year, 2019. On this day, Ganpati Bappa is worshipped. At the same time, on this day, Ganpati chants, Strotas and vandanas of Bappa. So today we have brought to you Shri Ganesh Pancharatanam, which must be recited on the day of Ganesh Chaturthi.

श्री गणेशपञ्चरत्नम् - 

 मुदा करात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासलोकरक्षकम्।

अनायकैकनायकं विनाशितेभदैत्यकं

नताशुभाशुनाशकं नमामि तं विनायकम्॥1॥

 

नतेतरातिभीकरं नवोदितार्कभास्वरं

नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्।

सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं

महेश्वरं तमाश्रये परात्परं निरन्तरम्॥2॥ समस्तलोकशङ्करं निरस्तदैत्यकुंजरं

दरेतरोदरं वरं वरेभवक्त्रमक्षरम्।

कृपाकरं क्षमाकरं मुदाकरं यशस्करं

मनस्करं नमस्कृतां नमस्करोमि भास्वरम्॥3॥

अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं

पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्।

प्रपंचनाशभीषणं धनंजयादिभूषणं

कपोलदानवारणं भजे पुराणवारणम्॥4॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं

अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्।

हृदन्तरे निरन्तरं वसन्तमेव योगिनां

तमेकदन्तमेव तं विचिन्तयामि सन्ततम्॥5॥

महागणेशपंचरत्नमादरेण योऽन्वहं

प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम्।

अरोगतां अदोषतां सुसाहितीं सुपुत्रतां

समीहितायुरष्टभूतिमभ्युपैति सोऽचिरात्॥6॥

In Jainism this is the reason why food is taken before sunset!

Islamic New Year: Hijri may start from September 1

These 10 organs are special in the Dashalan festival of Paryushan Parv

Related News

Join NewsTrack Whatsapp group